॥ श्रीहरिः ॥
श्लोक 5.17.14
नवस्वपि वर्षेषु भगवान्नारायणो महापुरुषः पुरुषाणां तदनुग्रहायात्मतत्त्वव्यूहेनात्मनाद्यापि३ संनिधीयते॥ १४॥ इलावृते तु भगवान् भव एक एव पुमान्न ह्यन्यस्तत्रापरो निर्विशति भवान्याः शापनिमित्तज्ञो यत्प्रवेक्ष्यतः स्त्रीभावस्तत्पश्चाद्वक्ष्यामि४ ॥ १५॥ भवानीनाथैः स्त्रीगणार्बुदसहस्रैरवरुध्यमानो५ भगवतश्चतुर्मूर्तेर्महापुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिमात्मनः सङ्कर्षणसंज्ञामात्मसमाधिरूपेण संनिधाप्यैतदभिगृणन् भव उपधावति॥ १६॥
navasvapi varṣeṣu bhagavānnārāyaṇo mahāpuruṣaḥ puruṣāṇāṃ tadanugrahāyātmatattvavyūhenātmanādyāpi saṃnidhīyate|| 14||
अर्थ
इन नवों वर्षोंमें परमपुरुष भगवान् नारायण वहाँके पुरुषोंपर अनुग्रह करनेके लिये इस समय भी अपनी विभिन्न मूर्तियोंसे विराजमान रहते हैं॥ १४॥
टिप्पणियाँ
- ३
प्रा० पा०—व्यूहैरात्मनाद्यापि।
- ४
प्रा० पा०—पश्चाद्वक्ष्यामः।
- ५
प्रा० पा०—सहस्रैर्व्यवरुद्ध्ययमानो।