॥ श्रीहरिः ॥
श्लोक 5.20.39
एतावाल्ँलोकविन्यासो मानलक्षणसंस्थाभिर्विचिन्तितः कविभिः स तु पञ्चाशत्कोटिगणितस्य भूगोलस्य १तुरीयभागोऽयं लोकालोकाचलः॥ ३८॥ तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिलजगद्गुरुणाधिनिवेशिता२ ये द्विरदपतय ऋषभः पुष्करचूडो वामनोऽपराजित इति सकललोकस्थितिहेतवः॥ ३९॥ तेषां स्वविभूतीनां लोकपालानां च विविधवीर्योपबृंहणाय भगवान् परममहापुरुषो महाविभूतिपतिरन्तर्याम्यात्मनो विशुद्धसत्त्वं धर्मज्ञानवैराग्यैश्वर्याद्यष्टमहासिद्ध्युपलक्षणं विष्वक्सेनादिभिःस्वपार्षदप्रवरैः परिवारितो निजवरायुधोपशोभितैर्निजभुजदण्डैः३ सन्धारयमाणस्तस्मिन् गिरिवरे समन्तात्सकललोकस्वस्तय आस्ते॥ ४०॥✎ 1869
tadupariṣṭāccatasṛṣvāśāsvātmayoninākhilajagadguruṇādhiniveśitā ye dviradapataya ṛṣabhaḥ puṣkaracūḍo vāmano'parājita iti sakalalokasthitihetavaḥ|| 39||
अर्थ
इसके ऊपर चारों दिशाओंमें समस्त संसारके गुरु स्वयम्भू श्रीब्रह्माजीने सम्पूर्ण लोकोंकी स्थितिके लिये ऋषभ, पुष्करचूड, वामन और अपराजित नामके चार गजराज नियुक्त किये हैं॥ ३९॥
टिप्पणियाँ
- १
प्रा० पा०—भूगोलकस्य।
- २
प्रा० पा०—भिनिवेशिता।
- ३
प्रा० पा०—भितैर्भुजदण्डैः।