॥ श्रीहरिः ॥
श्लोक 5.14.3
तद्यथा पुरुषस्य धनं यत्किञ्चिद्धर्मौपयिकं१ बहुकृच्छ्राधिगतं साक्षात्परमपुरुषाराधनलक्षणो२ योऽसौ धर्मस्तं तु साम्पराय उदाहरन्ति। तद्धर्म्यं धनं द३र्शनस्पर्शनश्रवणास्वादनावघ्राणसङ्कल्पव्यवसायगृहग्राम्योपभोगेन कुनाथस्य अजितात्मनो यथा सार्थस्य४ विलुम्पन्ति॥ २॥ अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृकसृगाला एवानिच्छतोऽपि कदर्यस्य कुटुम्बिन उरणकवत्संरक्ष्यमाणं मिषतोऽपि५ हरन्ति॥ ३॥ यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं क्षेत्रं पुनरेवावपनकाले गुल्मतृणवीरुद्भिर्गह्वरमिव भवत्येवमेव गृहाश्रमः कर्मक्षेत्रं यस्मिन्न हि कर्माण्युत्सीदन्ति यदयं कामकरण्ड एष आवसथः॥ ४॥✎ 941
atha ca yatra kauṭumbikā dārāpatyādayo nāmnā karmaṇā vṛkasṛgālā evānicchato'pi kadaryasya kuṭumbina uraṇakavatsaṃrakṣyamāṇaṃ miṣato'pi haranti|| 3||
अर्थ
ये ही नहीं, उस संसार-वनमें रहनेवाले उसके कुटुम्बी भी—जो नामसे तो स्त्री-पुत्रादि कहे जाते हैं, किन्तु कर्म जिनके साक्षात् भेड़ियों और गीदड़ोंके समान होते हैं—उस अर्थलोलुप कुटुम्बीके धनको उसकी इच्छा न रहनेपर भी उसके देखते-देखते इस प्रकार छीन ले जाते हैं, जैसे भेड़िये गड़रियोंसे सुरक्षित भेड़ोंको उठा ले जाते हैं॥ ३॥
टिप्पणियाँ
- १
प्रा० पा०—यत्किंचित्साक्षाद्धर्मौप।
- २
प्रा० पा०—यत् परमपुरुषा०।
- ३
प्रा० पा०—दर्शनस्वादनावघ्राणसङ्कल्प-संव्यवसाय०।
- ४
प्रा० पा०—यथा सार्थिकस्य त०।
- ५
प्रा० पा०—निमिषतो०।